श्रीराम-पट्टाभिषेक-सर्गः śrīrāma-paṭṭābhiṣeka-sargaḥ
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः ।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १
śirasyañjalimādhāya kaikeyyānandavardhanaḥ ;
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam . 1
पूजिता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २
pūjitā māmikā mātā dattaṃ rājyamidaṃ mama ;
taddadāmi punastubhyaṃ yathā tvamadadā mama . 2
धुरमेकाकिना न्यस्तामृषभेण बलीयसा ।
किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३
dhuramekākinā nyastāmṛṣabheṇa balīyasā ;
kiśoravadguruṃ bhāraṃ na voḍhumahamutsahe . 3
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४
vārivegena mahatā bhinnaḥ seturiva kṣaran ;
durbandhanamidaṃ manye rājyacchidramasaṃvṛtam . 4
गतिं खर इवाश्वस्य हंसस्येव च वायसः ।
नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५
gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ ;
nānvetumutsahe rāma tava mārgamarindama . 5
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने ।
महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ॥ ६
yathā cāropito vṛkṣo jātaścāntarniveśane ;
mahāṃśca sudurāroho mahāskandhaḥ praśākhavān . 6
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् ।
तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७
śīryeta puṣpito bhūtvā na phalāni pradarśayan ;
tasya nānubhavedarthaṃ yasya hetoḥ sa ropyate . 7
एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि ।
यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८
eṣopamā mahābāho tvadarthaṃ vettumarhasi ;
yadyasmānmanujendra tvaṃ bhaktānbhṛtyānna śādhi hi . 8
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९
jagadadyābhiṣiktaṃ tvāmanupaśyatu sarvataḥ ;
pratapantamivādityaṃ madhyāhne dīptatejasam . 9
तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः ।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १०
tūryasaṅghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ ;
madhurairgītaśabdaiśca pratibudhyasva rāghava . 10
यावदावर्तते चक्रं यावती च वसुन्धरा ।
तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥ ११
yāvadāvartate cakraṃ yāvatī ca vasundharā ;
tāvattvamiha sarvasya svāmitvamanuvartaya . 11
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः ।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२
bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ ;
tatheti pratijagrāha niṣasādāsane śubhe . 12
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ।
सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३
tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ ;
sukhahastāḥ suśīghrāśca rāghavaṃ paryupāsata . 13
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४
pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale ;
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe . 14
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५
viśodhitajaṭaḥ snātaścitramālyānulepanaḥ ;
mahārhavasano rāmastasthau tatra śriyā jvalan . 15
प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६
pratikarma ca rāmasya kārayāmāsa vīryavān ;
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ . 16
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७
pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ ;
ātmanaiva tadā cakrurmanasvinyo manoharam . 17
ततो वानरपत्नीनां सर्वासामेव शोभनम् ।
चकार यत्नात्कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८
tato vānarapatnīnāṃ sarvāsāmeva śobhanam ;
cakāra yatnātkausalyā prahṛṣṭā putralālasā . 18
ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः ।
योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९
tataḥ śatrughnavacanātsumantro nāma sārathiḥ ;
yojayitvā’bhicakrāma rathaṃ sarvāṅgaśobhanam . 19
अर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथोत्तमम् ।
आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २०
arkamaṇḍalasaṅkāśaṃ divyaṃ dṛṣṭvā rathottamam ;
āruroha mahābāhū rāmaḥ satyaparākramaḥ . 20
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती ।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१
sugrīvo hanumāṃścaiva mahendrasadṛśadyutī ;
snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau . 21
वराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः ।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२
varābharaṇasampannā yayustāḥ śubhakuṇḍalāḥ ;
sugrīvapatnyaḥ sītā ca draṣṭuṃ nagaramutsukāḥ . 22
अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३
ayodhyāyāṃ tu sacivā rājño daśarathasya ye ;
purohitaṃ puraskṛtya mantrayāmāsurarthavat . 23
अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः ।
मन्त्रयन्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४
aśoko vijayaścaiva sumantraścaiva saṅgatāḥ ;
mantrayanrāmavṛddhyarthamṛddhyarthaṃ nagarasya ca . 24
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः ।
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५
sarvamevābhiṣekārthaṃ jayārhasya mahātmanaḥ ;
kartumarhatha rāmasya yadyanmaṅgalapūrvakam . 25
इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् ।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६
iti te mantriṇaḥ sarve sandiśya tu purohitam ;
nagarānniryayustūrṇaṃ rāmadarśanabuddhayaḥ . 26
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७
hariyuktaṃ sahasrākṣo rathamindra ivānaghaḥ ;
prayayau rathamāsthāya rāmo nagaramuttamam . 27
जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥ २८
jagrāha bharato raśmīñśatrughnaśchatramādade ;
lakṣmaṇo vyajanaṃ tasya mūrdhni samparyavījayat . 28
श्वेतं च वालव्यजनं जग्राह पुरतः स्थितः ।
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ २९
śvetaṃ ca vālavyajanaṃ jagrāha purataḥ sthitaḥ ;
aparaṃ candrasaṅkāśaṃ rākṣasendro vibhīṣaṇaḥ . 29
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः ।
स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३०
ṛṣisaṅghaistadā’’kāśe devaiśca samarudgaṇaiḥ ;
stūyamānasya rāmasya śuśruve madhuradhvaniḥ . 30
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् ।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१
tataḥ śatruñjayaṃ nāma kuñjaraṃ parvatopamam ;
āruroha mahātejāḥ sugrīvaḥ plavagarṣabhaḥ . 31
नवनागसहस्राणि ययुरास्थाय वानराः ।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२
navanāgasahasrāṇi yayurāsthāya vānarāḥ ;
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ . 32
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः ।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३
śaṅkhaśabdapraṇādaiśca dundubhīnāṃ ca nissvanaiḥ ;
prayayau puruṣavyāghrastāṃ purīṃ harmyamālinīm . 33
ददृशुस्ते समायान्तं राघवं सपुरस्सरम् ।
विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४
dadṛśuste samāyāntaṃ rāghavaṃ sapurassaram ;
virājamānaṃ vapuṣā rathenātirathaṃ tadā . 34
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५
te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ ;
anujagmurmahātmānaṃ bhrātṛbhiḥ parivāritam . 35
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६
amātyairbrāhmaṇaiścaiva tathā prakṛtibhirvṛtaḥ ;
śriyā viruruce rāmo nakṣatrairiva candramāḥ . 36
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७
sa purogāmibhistūryaistālasvastikapāṇibhiḥ ;
pravyāharadbhirmuditairmaṅgalāni yayau vṛtaḥ . 37
अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८
akṣataṃ jātarūpaṃ ca gāvaḥ kanyāstathā dvijāḥ ;
narā modakahastāśca rāmasya purato yayuḥ . 38
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।
वानराणां च तत्कर्म राक्षसानां च तद्बलम् ।
विभीषणस्य सम्योगमाचचक्षे च मन्त्रिणाम् ॥ ३९
sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje ;
vānarāṇāṃ ca tatkarma rākṣasānāṃ ca tadbalam ;
vibhīṣaṇasya samyogamācacakṣe ca mantriṇām . 39
श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४०
śrutvā tu vismayaṃ jagmurayodhyāpuravāsinaḥ . 40
द्युतिमानेतदाख्याय रामो वानरसंवृतः ।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१
dyutimānetadākhyāya rāmo vānarasaṃvṛtaḥ ;
hṛṣṭapuṣṭajanākīrṇāmayodhyāṃ praviveśa ha . 41
ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२
tato hyabhyucchrayanpaurāḥ patākāste gṛhe gṛhe . 42
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३
aikṣvākādhyuṣitaṃ ramyamāsasāda piturgṛham . 43
अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् ।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४
athābravīdrājasuto bharataṃ dharmiṇāṃ varam ;
arthopahitayā vācā madhuraṃ raghunandanaḥ . 44
पितुर्भवनमासाद्य प्रविश्य च महात्मनः ।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५
piturbhavanamāsādya praviśya ca mahātmanaḥ ;
kausalyāṃ ca sumitrāṃ ca kaikeyīmabhivādya ca . 45
यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।
मुक्तावैडूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥ ४६
yacca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat ;
muktāvaiḍūryasaṅkīrṇaṃ sugrīvāya nivedaya . 46
तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७
tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ ;
pāṇau gṛhītvā sugrīvaṃ praviveśa tamālayam . 47
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४८
tatastailapradīpāṃśca paryaṅkāstaraṇāni ca ;
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ . 48
उवाच च महातेजाः सुग्रीवं राघवानुजः ।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९
uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ ;
abhiṣekāya rāmasya dūtānājñāpaya prabho . 49
सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् ।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ५०
sauvarṇānvānarendrāṇāṃ caturṇāṃ caturo ghaṭān ;
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān . 50
यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५१
yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām ;
pūrṇairghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ . 51
एवमुक्ता महात्मानो वानरा वारणोपमाः ।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५२
evamuktā mahātmāno vānarā vāraṇopamāḥ ;
utpeturgaganaṃ śīghraṃ garuḍā iva śīghragāḥ . 52
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ।
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५३
jāmbavāṃśca hanūmāṃśca vegadarśī ca vānaraḥ ;
ṛṣabhaścaiva kalaśāñjalapūrṇānathānayan . 53
नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४
nadīśatānāṃ pañcānāṃ jalaṃ kumbheṣu cāharan . 54
पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ।
सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ॥ ५५
pūrvātsamudrātkalaśaṃ jalapūrṇamathānayat ;
suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam . 55
ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् ।
रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६
ṛṣabho dakṣiṇāttūrṇaṃ samudrājjalamāharat ;
raktacandanaśākhābhiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam . 56
गवयः पश्चिमात्तोयमाजहार महार्णवात् ।
रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७
gavayaḥ paścimāttoyamājahāra mahārṇavāt ;
ratnakumbhena mahatā śītaṃ mārutavikramaḥ . 57
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ।
आजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥ ५८
uttarācca jalaṃ śīghraṃ garuḍānilavikramaḥ ;
ājahāra sa dharmātmā nalaḥ sarvaguṇānvitaḥ . 58
ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ।
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ।
पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ५९
tatastairvānaraśreṣṭhairānītaṃ prekṣya tajjalam ;
abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha ;
purohitāya śreṣṭhāya suhṛdbhyaśca nyavedayat . 59
(- पट्टाभिषेक घट्टः -)
(- paṭṭābhiṣeka ghaṭṭaḥ -)
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ ६०
tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha ;
rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat . 60
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ६१
vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ ;
kātyāyanaḥ suyajñaśca gautamo vijayastathā . 61
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६२
abhyaṣiñcannaravyāghraṃ prasannena sugandhinā ;
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā . 62
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा ।
योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः ॥ ६३
ṛtvigbhirbrāhmaṇaiḥ pūrvaṃ kanyābhirmantribhistathā ;
yodhaiścaivābhyaṣiñcaṃste samprahṛṣṭāḥ sanaigamaiḥ . 63
सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः ।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ॥ ६४
sarvauṣadhirasairdivyairdaivatairnabhasi sthitaiḥ ;
caturbhirlokapālaiśca sarvairdevaiśca saṅgataiḥ . 64
अधिकश्लोकाः – किरीट वर्णन
adhikaślokāḥ – kirīṭa varṇana
ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् ।
अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६५
brahmaṇā nirmitaṃ pūrvaṃ kirīṭaṃ ratnaśobhitam ;
abhiṣiktaḥ purā yena manustaṃ dīptatejasam . 65
तस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः ।
सभायां हेमक्लुप्तायां शोभितायां महाजनैः ।
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ॥ ६६
tasyānvavāye rājānaḥ kramādyenābhiṣecitāḥ ;
sabhāyāṃ hemakluptāyāṃ śobhitāyāṃ mahājanaiḥ ;
ratnairnānāvidhaiścaiva citritāyāṃ suśobhanaiḥ . 66
नानारत्नमये पीठे कल्पयित्वा यथाविधि ।
किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ।
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७
nānāratnamaye pīṭhe kalpayitvā yathāvidhi ;
kirīṭena tataḥ paścādvasiṣṭhena mahātmanā ;
ṛtvigbhirbhūṣaṇaiścaiva samayokṣyata rāghavaḥ . 67
छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ।
अपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ ६८
chatraṃ tu tasya jagrāha śatrughnaḥ pāṇḍuraṃ śubham ;
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ ;
aparaṃ candrasaṅkāśaṃ rākṣasendro vibhīṣaṇaḥ . 68
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ।
राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९
mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām ;
rāghavāya dadau vāyurvāsavena pracoditaḥ . 69
सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ।
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७०
sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam ;
muktāhāraṃ narendrāya dadau śakrapracoditaḥ . 70
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ७१
prajagurdevagandharvā nanṛtuścāpsarogaṇāḥ ;
abhiṣeke tadarhasya tadā rāmasya dhīmataḥ . 71
भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ ७२
bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ ;
gandhavanti ca puṣpāṇi babhūvū rāghavotsave . 72
सहस्रशतमश्वानां धेनूनां च गवां तथा ।
ददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३
sahasraśatamaśvānāṃ dhenūnāṃ ca gavāṃ tathā ;
dadau śataṃ vṛṣānpūrvaṃ dvijebhyo manujarṣabhaḥ . 73
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ।
नानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ७४
triṃśatkoṭīrhiraṇyasya brāhmaṇebhyo dadau punaḥ ;
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ . 74
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ।
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५
arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām ;
sugrīvāya srajaṃ divyāṃ prāyacchanmanujarṣabhaḥ . 75
वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते ।
वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ७६
vaiḍūryamaṇicitre ca vajraratnavibhūṣite ;
vāliputrāya dhṛtimānaṅgadāyāṅgade dadau . 76
मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ।
सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ ७७
maṇipravarajuṣṭaṃ ca muktāhāramanuttamam ;
sītāyai pradadau rāmaścandraraśmisamaprabham . 77
अरजे वाससी दिव्ये शुभान्याभरणानि च ।
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ७८
araje vāsasī divye śubhānyābharaṇāni ca ;
avekṣamāṇā vaidehī pradadau vāyusūnave . 78
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९
avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī ;
avaikṣata harīnsarvānbhartāraṃ ca muhurmuhuḥ . 79
तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ।
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ ८०
tāmiṅgitajñaḥ samprekṣya babhāṣe janakātmajām ;
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini ;
pauruṣaṃ vikramo buddhiryasminnetāni sarvaśaḥ . 80
ददौ सा वायुपुत्राय तं हारमसितेक्षणा ।
हनुमांस्तेन हारेण शुशुभे वानरर्षभः ।
चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाऽचलः ॥ ८१
dadau sā vāyuputrāya taṃ hāramasitekṣaṇā ;
hanumāṃstena hāreṇa śuśubhe vānararṣabhaḥ ;
candrāṃśucayagaureṇa śvetābhreṇa yathā’calaḥ . 81
ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः ।
सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ८२
tato dvividamaindābhyāṃ nīlāya ca parantapaḥ ;
sarvānkāmaguṇānvīkṣya pradadau vasudhādhipaḥ . 82
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८३
sarvavānaravṛddhāśca ye cānye vānareśvarāḥ ;
vāsobhirbhūṣaṇaiścaiva yathārhaṃ pratipūjitāḥ . 83
विभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा ।
सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८४
vibhīṣaṇo’tha sugrīvo hanumān jāmbavāṃstathā ;
sarvavānaramukhyāśca rāmeṇākliṣṭakarmaṇā . 84
यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः ।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८५
yathārhaṃ pūjitāḥ sarvaiḥ kāmai ratnaiśca puṣkalaiḥ ;
prahṛṣṭamanasaḥ sarve jagmureva yathāgatam . 85
नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ ८६
natvā sarve mahātmānaṃ tataste plavagarṣabhāḥ ;
visṛṣṭāḥ pārthivendreṇa kiṣkindhāmabhyupāgaman . 86
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ।
पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ॥ ८७
sugrīvo vānaraśreṣṭho dṛṣṭvā rāmābhiṣecanam ;
pūjitaścaiva rāmeṇa kiṣkindhāṃ prāviśatpurīm . 87
रामेण सर्वकामैश्च यथार्हं प्रतिपूजितः ।
लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ ८८
rāmeṇa sarvakāmaiśca yathārhaṃ pratipūjitaḥ ;
labdhvā kuladhanaṃ rājā laṅkāṃ prāyādvibhīṣaṇaḥ . 88
स राज्यमखिलं शासन्निहतारिर्महायशाः ।
राघवः परमोदारः शशास परया मुदा ॥ ८९
sa rājyamakhilaṃ śāsannihatārirmahāyaśāḥ ;
rāghavaḥ paramodāraḥ śaśāsa parayā mudā . 89
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९०
uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ . 90
आतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन ।
तुल्यं मया त्वं पितृभिर्धृता या
तां यौवराज्ये धुरमुद्वहस्व ॥ ९१
ātiṣṭha dharmajña mayā sahemāṃ
gāṃ pūrvarājādhyuṣitāṃ balena ;
tulyaṃ mayā tvaṃ pitṛbhirdhṛtā yā
tāṃ yauvarājye dhuramudvahasva . 91
सर्वात्मना पर्यनुनीयमानो
यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोऽपि च यौवराज्ये
ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२
sarvātmanā paryanunīyamāno
yadā na saumitrirupaiti yogam ;
niyujyamāno’pi ca yauvarājye
tato’bhyaṣiñcadbharataṃ mahātmā . 92
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।
अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ९३
pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt ;
anyaiśca vividhairyajñairayajatpārthivarṣabhaḥ . 93
राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः ।
शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ९४
rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ ;
śatāśvamedhānājahre sadaśvānbhūridakṣiṇān . 94
आजानुलम्बबाहुः स महास्कन्धः प्रतापवान् ।
लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ९५
ājānulambabāhuḥ sa mahāskandhaḥ pratāpavān ;
lakṣmaṇānucaro rāmaḥ pṛthivīmanvapālayat . 95
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९६
rāghavaścāpi dharmātmā prāpya rājyamanuttamam ;
īje bahuvidhairyajñaiḥ sasuhṛjjñātibāndhavaḥ . 96
न पर्यदेवन्विधवा न च व्यालकृतं भयम् ।
न व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ॥ ९७
na paryadevanvidhavā na ca vyālakṛtaṃ bhayam ;
na vyādhijaṃ bhayaṃ vā’pi rāme rājyaṃ praśāsati . 97
निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।
न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९८
nirdasyurabhavalloko nānarthaḥ kaṃcidaspṛśat ;
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate . 98
सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ।
राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ९९
sarvaṃ muditamevāsītsarvo dharmaparo’bhavat ;
rāmamevānupaśyanto nābhyahiṃsanparasparam . 99
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १००
āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ ;
nirāmayā viśokāśca rāme rājyaṃ praśāsati . 100
रामो रामो राम इति प्रजानामभवन्कथाः ।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०१
rāmo rāmo rāma iti prajānāmabhavankathāḥ ;
rāmabhūtaṃ jagadabhūdrāme rājyaṃ praśāsati . 101
नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ।
काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०२
nityapuṣpā nityaphalāstaravaḥ skandhavistṛtāḥ ;
kāle varṣī ca parjanyaḥ sukhasparśaśca mārutaḥ . 102
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः ।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०३
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lobhavivarjitāḥ ;
svakarmasu pravartante tuṣṭāḥ svaireva karmabhiḥ . 103
आसन्प्रजा धर्मरता रामे शासति नानृताः ।
सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥ १०४
āsanprajā dharmaratā rāme śāsati nānṛtāḥ ;
sarve lakṣaṇasampannāḥ sarve dharmaparāyaṇāḥ . 104
दश वर्षसहस्राणि दश वर्षशतानि च ।
भ्रातृभिः सहितः श्रीमान्रामो राज्यमकारयत् ॥ १०५
daśa varṣasahasrāṇi daśa varṣaśatāni ca ;
bhrātṛbhiḥ sahitaḥ śrīmānrāmo rājyamakārayat . 105
रामायण फलश्रुति
rāmāyaṇa phalaśruti
धन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।
यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०६
dhanyaṃ yaśasyamāyuṣyaṃ rājñāṃ ca vijayāvaham ;
ādikāvyamidaṃ tvārṣaṃ purā vālmīkinā kṛtam ;
yaḥ paṭhecchṛṇuyālloke naraḥ pāpādvimucyate . 106
पुत्रकामस्तु पुत्रान्वै धनकामो धनानि च ।
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ १०७
putrakāmastu putrānvai dhanakāmo dhanāni ca ;
labhate manujo loke śrutvā rāmābhiṣecanam . 107
महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ।
राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०८
mahīṃ vijayate rājā ripūṃścāpyadhitiṣṭhati ;
rāghaveṇa yathā mātā sumitrā lakṣmaṇena ca . 108
भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः ।
भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ॥ १०९
bharateneva kaikeyī jīvaputrāstathā striyaḥ ;
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ . 109
श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ।
रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ ११०
śrutvā rāmāyaṇamidaṃ dīrghamāyuśca vindati ;
rāmasya vijayaṃ caiva sarvamakliṣṭakarmaṇaḥ . 110
शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् ।
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ १११
śṛṇoti ya idaṃ kāvyamārṣaṃ vālmīkinā kṛtam ;
śraddadhāno jitakrodho durgāṇyatitaratyasau . 111
समागमं प्रवासान्ते लभते चापि बान्धवैः ।
प्रार्थितांश्च वरान्सर्वान्प्राप्नुयादिह राघवात् ॥ ११२
samāgamaṃ pravāsānte labhate cāpi bāndhavaiḥ ;
prārthitāṃśca varānsarvānprāpnuyādiha rāghavāt . 112
श्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम् ।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११३
śravaṇena surāḥ sarve prīyante saṃpraśṛṇvatām ;
vināyakāśca śāmyanti gṛhe tiṣṭhanti yasya vai . 113
विजयेत महीं राजा प्रवासी स्वस्तिमान्व्रजेत् ।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ ११४
vijayeta mahīṃ rājā pravāsī svastimānvrajet ;
striyo rajasvalāḥ śrutvā putrān sūyuranuttamān . 114
पूजयंश्च पठंश्चेममितिहासं पुरातनम् ।
सर्वपापात्प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११५
pūjayaṃśca paṭhaṃścemamitihāsaṃ purātanam ;
sarvapāpātpramucyeta dīrghamāyuravāpnuyāt . 115
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् ।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११६
praṇamya śirasā nityaṃ śrotavyaṃ kṣatriyairdvijāt ;
aiśvaryaṃ putralābhaśca bhaviṣyati na saṃśayaḥ . 116
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा ।
प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११७
rāmāyaṇamidaṃ kṛtsnaṃ śṛṇvataḥ paṭhataḥ sadā ;
prīyate satataṃ rāmaḥ sa hi viṣṇuḥ sanātanaḥ . 117
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ।
साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥ ११८
ādidevo mahābāhurharirnārāyaṇaḥ prabhuḥ ;
sākṣādrāmo raghuśreṣṭhaḥ śeṣo lakṣmaṇa ucyate . 118
कुटुम्बवृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्याः सुखमुत्तमं च ।
शृत्वा शुभं काव्यमिदं महार्थं
प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ ११९
kuṭumbavṛddhiṃ dhanadhānyavṛddhiṃ
striyaśca mukhyāḥ sukhamuttamaṃ ca ;
śṛtvā śubhaṃ kāvyamidaṃ mahārthaṃ
prāpnoti sarvāṃ bhuvi cārthasiddhim . 119
आयुष्यमारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं सुखं च ।
श्रोतव्यमेतन्नियमेन सद्भि-
-राख्यानमोजस्करमृद्धिकामैः ॥ १२०
āyuṣyamārogyakaraṃ yaśasyaṃ
saubhrātṛkaṃ buddhikaraṃ sukhaṃ ca ;
śrotavyametanniyamena sadbhi-
-rākhyānamojaskaramṛddhikāmaiḥ . 120
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२१
evametatpurāvṛttamākhyānaṃ bhadramastu vaḥ ;
pravyāharata visrabdhaṃ balaṃ viṣṇoḥ pravardhatām . 121
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा ।
रामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ १२२
devāśca sarve tuṣyanti grahaṇācchravaṇāttathā ;
rāmāyaṇasya śravaṇāttuṣyanti pitarastathā . 122
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् ।
लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२३
bhaktyā rāmasya ye cemāṃ saṃhitāmṛṣiṇā kṛtām ;
lekhayantīha ca narāsteṣāṃ vāsastriviṣṭape . 123
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye caturviṃśatisahasrikāyāṃ saṃhitāyāṃ yuddhakāṇḍe śrīrāmapaṭṭābhiṣeko nāma ekatriṃśaduttaraśatatamaḥ sargaḥ ;