हरिस्तुतिः haristutiḥ
स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं
यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।
यस्मिन्दृष्टे नश्यति तत्संसृतिचक्रं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १ ॥
stoṣye bhaktyā viṣṇumanādiṃ jagadādiṃ
yasminnetatsaṃsṛticakraṃ bhramatīttham ;
yasmindṛṣṭe naśyati tatsaṃsṛticakraṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 1 .
यस्यैकांशादित्थमशेषं जगदेतत्
प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।
येन व्याप्तं येन विबुद्धं सुखदुःखै-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २ ॥
yasyaikāṃśāditthamaśeṣaṃ jagadetat
prādurbhūtaṃ yena pinaddhaṃ punarittham ;
yena vyāptaṃ yena vibuddhaṃ sukhaduḥkhai-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 2 .
सर्वज्ञो यो यश्च हि सर्वः सकलो यो
यश्चानन्दोऽनन्तगुणो यो गुणधामा ।
यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३ ॥
sarvajño yo yaśca hi sarvaḥ sakalo yo
yaścānando’nantaguṇo yo guṇadhāmā ;
yaścāvyakto vyastasamastaḥ sadasadya-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 3 .
यस्मादन्यन्नास्त्यपि नैवं परमार्थं
दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४ ॥
yasmādanyannāstyapi naivaṃ paramārthaṃ
dṛśyādanyo nirviṣayajñānamayatvāt ;
jñātṛjñānajñeyavihīno’pi sadā jña-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 4 .
आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा
वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।
भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ५ ॥
ācāryebhyo labdhasusūkṣmācyutatattvā
vairāgyeṇābhyāsabalāccaiva draḍhimnā ;
bhaktyaikāgryadhyānaparā yaṃ vidurīśaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 5 .
प्राणानायम्योमिति चित्तं हृदि रुध्वा
नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।
क्षीणे चित्ते भादृशिरस्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ६ ॥
prāṇānāyamyomiti cittaṃ hṛdi rudhvā
nānyatsmṛtvā tatpunaratraiva vilāpya ;
kṣīṇe citte bhādṛśirasmīti viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 6 .
यं ब्रह्माख्यं देवमनन्यं परिपूर्णं
हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ७ ॥
yaṃ brahmākhyaṃ devamananyaṃ paripūrṇaṃ
hṛtsthaṃ bhaktairlabhyamajaṃ sūkṣmamatarkyam ;
dhyātvātmasthaṃ brahmavido yaṃ vidurīśaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 7 .
मात्रातीतं स्वात्मविकासात्मविबोधं
ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
भावग्राह्यानन्दमनन्यं च विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥
mātrātītaṃ svātmavikāsātmavibodhaṃ
jñeyātītaṃ jñānamayaṃ hṛdyupalabhya ;
bhāvagrāhyānandamananyaṃ ca viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 8 .
यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं
तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥
yadyadvedyaṃ vastusatattvaṃ viṣayākhyaṃ
tattadbrahmaiveti viditvā tadahaṃ ca ;
dhyāyantyevaṃ yaṃ sanakādyā munayo’jaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 9 .
यद्यद्वेद्यं तत्तदहं नेति विहाय
स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य ।
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥
yadyadvedyaṃ tattadahaṃ neti vihāya
svātmajyotirjñānamayānandamavāpya ;
tasminnasmītyātmavido yaṃ vidurīśaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 10 .
हित्वा हित्वा दृश्यमशेषं सविकल्पं
मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥
hitvā hitvā dṛśyamaśeṣaṃ savikalpaṃ
matvā śiṣṭaṃ bhādṛśimātraṃ gaganābham ;
tyaktvā dehaṃ yaṃ praviśantyacyutabhaktā-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 11 .
सर्वत्रास्ते सर्वशरीरी न च सर्वः
सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।
सर्वत्रान्तर्यामितयेत्थं यमयन्य-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १२ ॥
sarvatrāste sarvaśarīrī na ca sarvaḥ
sarvaṃ vettyeveha na yaṃ vetti ca sarvaḥ ;
sarvatrāntaryāmitayetthaṃ yamayanya-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 12 .
सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेतद्
दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।
सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १३ ॥
sarvaṃ dṛṣṭvā svātmani yuktyā jagadetad
dṛṣṭvātmānaṃ caivamajaṃ sarvajaneṣu ;
sarvātmaiko’smīti viduryaṃ janahṛtsthaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 13 .
सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते
स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
तं संसारध्वान्तविनाशं हरिमीडे ॥ १४ ॥
sarvatraikaḥ paśyati jighratyatha bhuṅkte
spraṣṭā śrotā budhyati cetyāhurimaṃ yam ;
sākṣī cāste kartṛṣu paśyanniti cānye
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 14 .
पश्यञ्शृण्वन्नत्र विजानन्रसयन्सं-
जिघ्रन्बिभ्रद्देहमिमं जीवतयेत्थम् ।
इत्यात्मानं यं विदुरीशं विषयज्ञं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १५ ॥
paśyañśṛṇvannatra vijānanrasayansaṃ-
jighranbibhraddehamimaṃ jīvatayettham ;
ityātmānaṃ yaṃ vidurīśaṃ viṣayajñaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 15 .
जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां
दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
तं संसारध्वान्तविनाशं हरिमीडे ॥ १६ ॥
jāgraddṛṣṭvā sthūlapadārthānatha māyāṃ
dṛṣṭvā svapne’thāpi suṣuptau sukhanidrām ;
ityātmānaṃ vīkṣya mudāste ca turīye
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 16 .
पश्यञ्शुद्धोऽप्यक्षर एको गुणभेदा-
न्नानाकारान्स्फाटिकवद्भाति विचित्रः ।
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ १७ ॥
paśyañśuddho’pyakṣara eko guṇabhedā-
nnānākārānsphāṭikavadbhāti vicitraḥ ;
bhinnaśchinnaścāyamajaḥ karmaphalairya-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 17 .
ब्रह्मा विष्णू रुद्रहुताशौ रविचन्द्रा-
विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।
एकं सन्तं यं बहुधाहुर्मतिभेदा-
त्तं संसारध्वान्तविनाशं हरिमीडे ॥ १८ ॥
brahmā viṣṇū rudrahutāśau ravicandrā-
vindro vāyuryajña itītthaṃ parikalpya ;
ekaṃ santaṃ yaṃ bahudhāhurmatibhedā-
ttaṃ saṃsāradhvāntavināśaṃ harimīḍe . 18 .
सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
तं संसारध्वान्तविनाशं हरिमीडे ॥ १९ ॥
satyaṃ jñānaṃ śuddhamanantaṃ vyatiriktaṃ
śāntaṃ gūḍhaṃ niṣkalamānandamananyam ;
ityāhādau yaṃ varuṇo’sau bhṛgave’jaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 19 .
कोशानेतान्पञ्च रसादीनतिहाय
ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।
पित्रा शिष्टो वेद भृगुर्यं यजुरन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥ २० ॥
kośānetānpañca rasādīnatihāya
brahmāsmīti svātmani niścitya dṛśistham ;
pitrā śiṣṭo veda bhṛguryaṃ yajurante
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 20 .
येनाविष्टो यस्य च शक्त्या यदधीनः
क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।
कर्ता भोक्तात्मात्र हि यच्छक्त्याधिरूढ-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २१ ॥
yenāviṣṭo yasya ca śaktyā yadadhīnaḥ
kṣetrajño’yaṃ kārayitā jantuṣu kartuḥ ;
kartā bhoktātmātra hi yacchaktyādhirūḍha-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 21 .
सृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यं
व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।
सच्च त्यच्चाभूत्परमात्मा स य एक-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २२ ॥
sṛṣṭvā sarvaṃ svātmatayaivetthamatarkyaṃ
vyāpyāthāntaḥ kṛtsnamidaṃ sṛṣṭamaśeṣam ;
sacca tyaccābhūtparamātmā sa ya eka-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 22 .
वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः
शास्त्रैश्चान्यैः सात्त्वततन्त्रैश्च यमीशम् ।
दृष्ट्वाथान्तश्चेतसि बुद्ध्वा विविशुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २३ ॥
vedāntaiścādhyātmikaśāstraiśca purāṇaiḥ
śāstraiścānyaiḥ sāttvatatantraiśca yamīśam ;
dṛṣṭvāthāntaścetasi buddhvā viviśuryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 23 .
श्रद्धाभक्तिध्यानशमाद्यैर्यत्तमानै-
र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।
दुर्विज्ञेयो जन्मशतैश्चापि विना तै-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ २४ ॥
śraddhābhaktidhyānaśamādyairyattamānai-
rjñātuṃ śakyo deva ihaivāśu ya īśaḥ ;
durvijñeyo janmaśataiścāpi vinā tai-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 24 .
यस्यातर्क्यं स्वात्मविभूतेः परमार्थं
सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।
तज्जादित्वादब्धितरङ्गाभमभिन्नं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २५ ॥
yasyātarkyaṃ svātmavibhūteḥ paramārthaṃ
sarvaṃ khalvityatra niruktaṃ śrutividbhiḥ ;
tajjāditvādabdhitaraṅgābhamabhinnaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 25 .
दृष्ट्वा गीतास्वक्षरतत्त्वं विधिनाजं
भक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम् ।
ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २६ ॥
dṛṣṭvā gītāsvakṣaratattvaṃ vidhinājaṃ
bhaktyā gurvyā labhya hṛdisthaṃ dṛśimātram ;
dhyātvā tasminnasmyahamityatra viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 26 .
क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो
भुङ्क्तेऽजस्रं भोग्यपदार्थान्प्रकृतिस्थः ।
क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥ २७ ॥
kṣetrajñatvaṃ prāpya vibhuḥ pañcamukhairyo
bhuṅkte’jasraṃ bhogyapadārthānprakṛtisthaḥ ;
kṣetre kṣetre’psvinduvadeko bahudhāste
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 27 .
युक्त्यालोड्य व्यासवचांस्यत्र हि लभ्यः
क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।
योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ २८ ॥
yuktyāloḍya vyāsavacāṃsyatra hi labhyaḥ
kṣetrakṣetrajñāntaravidbhiḥ puruṣākhyaḥ ;
yo’haṃ so’sau so’smyahameveti viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 28 .
एकीकृत्यानेकशरीरस्थमिमं ज्ञं
यं विज्ञायेहैव स एवाशु भवन्ति ।
यस्मिँल्लीना नेह पुनर्जन्म लभन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥ २९ ॥
ekīkṛtyānekaśarīrasthamimaṃ jñaṃ
yaṃ vijñāyehaiva sa evāśu bhavanti ;
yasmi.ṇllīnā neha punarjanma labhante
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 29 .
द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः
कृत्वा शक्रोपासनमासाद्य विभूत्या ।
योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३० ॥
dvandvaikatvaṃ yacca madhubrāhmaṇavākyaiḥ
kṛtvā śakropāsanamāsādya vibhūtyā ;
yo’sau so’haṃ so’smyahameveti viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 30 .
योऽयं देहे चेष्टयितान्तःकरणस्थः
सूर्ये चासौ तापयिता सोऽस्म्यहमेव ।
इत्यात्मैक्योपासनया यं विदुरीशं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३१ ॥
yo’yaṃ dehe ceṣṭayitāntaḥkaraṇasthaḥ
sūrye cāsau tāpayitā so’smyahameva ;
ityātmaikyopāsanayā yaṃ vidurīśaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 31 .
विज्ञानांशो यस्य सतः शक्त्यधिरूढो
बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।
नैवान्तःस्थं बुध्यति यं बोधयितारं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३२ ॥
vijñānāṃśo yasya sataḥ śaktyadhirūḍho
buddhirbudhyatyatra bahirbodhyapadārthān ;
naivāntaḥsthaṃ budhyati yaṃ bodhayitāraṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 32 .
कोऽयं देहे देव इतीत्थं सुविचार्य
ज्ञाता श्रोता मन्तयिता चैष हि देवः ।
इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३३ ॥
ko’yaṃ dehe deva itītthaṃ suvicārya
jñātā śrotā mantayitā caiṣa hi devaḥ ;
ityālocya jñāṃśa ihāsmīti viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 33 .
को ह्येवान्यादात्मनि न स्यादयमेष
ह्येवानन्दः प्राणिति चापानिति चेति ।
इत्यस्तित्वं वक्त्युपपत्त्या श्रुतिरेषा
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३४ ॥
ko hyevānyādātmani na syādayameṣa
hyevānandaḥ prāṇiti cāpāniti ceti ;
ityastitvaṃ vaktyupapattyā śrutireṣā
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 34 .
प्राणो वाहं वाक्छ्रवणादीनि मनो वा
बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।
इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३५ ॥
prāṇo vāhaṃ vākchravaṇādīni mano vā
buddhirvāhaṃ vyasta utāho’pi samastaḥ ;
ityālocya jñaptirihāsmīti viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 35 .
नाहं प्राणो नैव शरीरं न मनोऽहं
नाहं बुद्धिर्नाहमहङ्कारधियौ च ।
योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३६ ॥
nāhaṃ prāṇo naiva śarīraṃ na mano’haṃ
nāhaṃ buddhirnāhamahaṅkāradhiyau ca ;
yo’tra jñāṃśaḥ so’smyahameveti viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 36 .
सत्तामात्रं केवलविज्ञानमजं स-
त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।
साम्नामन्ते प्राह पिता यं विभुमाद्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३७ ॥
sattāmātraṃ kevalavijñānamajaṃ sa-
tsūkṣmaṃ nityaṃ tattvamasītyātmasutāya ;
sāmnāmante prāha pitā yaṃ vibhumādyaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 37 .
मूर्तामूर्ते पूर्वमपोह्याथ समाधौ
दृश्यं सर्वं नेति च नेतीति विहाय ।
चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३८ ॥
mūrtāmūrte pūrvamapohyātha samādhau
dṛśyaṃ sarvaṃ neti ca netīti vihāya ;
caitanyāṃśe svātmani santaṃ ca viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 38 .
ओतं प्रोतं यत्र च सर्वं गगनान्तं
योऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।
ज्ञाताऽतोऽन्यो नेत्युपलभ्यो न च वेद्य-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३९ ॥
otaṃ protaṃ yatra ca sarvaṃ gaganāntaṃ
yo’sthūlānaṇvādiṣu siddho’kṣarasaṃjñaḥ ;
jñātā’to’nyo netyupalabhyo na ca vedya-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 39 .
तावत्सर्वं सत्यमिवाभाति यदेत-
द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो न हि दृष्टः ।
दृष्टे यस्मिन्सर्वमसत्यं भवतीदं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ४० ॥
tāvatsarvaṃ satyamivābhāti yadeta-
dyāvatso’smītyātmani yo jño na hi dṛṣṭaḥ ;
dṛṣṭe yasminsarvamasatyaṃ bhavatīdaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 40 .
रागामुक्तं लोहयुतं हेम यथाग्नौ
योगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ ।
दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ४१ ॥
rāgāmuktaṃ lohayutaṃ hema yathāgnau
yogāṣṭāṅgairujjvalitajñānamayāgnau ;
dagdhvātmānaṃ jñaṃ pariśiṣṭaṃ ca viduryaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 41 .
यं विज्ञानज्योतिषमाद्यं सुविभान्तं
हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।
भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ४२ ॥
yaṃ vijñānajyotiṣamādyaṃ suvibhāntaṃ
hṛdyarkendvagnyokasamīḍyaṃ taṭidābham ;
bhaktyārādhyehaiva viśantyātmani santaṃ
taṃ saṃsāradhvāntavināśaṃ harimīḍe . 42 .
पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो
भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम् ।
इत्यात्मानं स्वात्मनि संहृत्य सदैक-
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४३ ॥
pāyādbhaktaṃ svātmani santaṃ puruṣaṃ yo
bhaktyā stautītyāṅgirasaṃ viṣṇurimaṃ mām ;
ityātmānaṃ svātmani saṃhṛtya sadaika-
staṃ saṃsāradhvāntavināśaṃ harimīḍe . 43 .
॥ हरिस्तुतिः सम्पूर्णा ॥
. haristutiḥ sampūrṇā .