शङ्कर-भगवत्पादाचार्य-गीतम् – १ śaṅkara-bhagavatpādācārya-gītam – 1
कर्णाटकदेवगान्धारीरागः, आदितालः
karṇāṭakadevagāndhārīrāgaḥ, āditālaḥ
भज रे लोकगुरुं मनुज भज रे लोकगुरुम्
bhaja re lokaguruṃ manuja bhaja re lokagurum
आर्याम्बामुखपङ्कजभानुम आर्याजानिपदाम्बुजभृङ्गम् ।
नित्यानित्यविवेचनचतुरं सत्याद्वयचिच्चिन्तननिरतम् ॥ १
āryāmbāmukhapaṅkajabhānuma āryājānipadāmbujabhṛṅgam ;
nityānityavivecanacaturaṃ satyādvayaciccintananiratam . 1
दण्डकमण्डलुमण्डितपाणिं पण्डितपामरवन्दितपादम् ।
शङ्करमाश्रितजनमन्दारं किङ्करभारतीतीर्थसुसेव्यम् ॥ २
daṇḍakamaṇḍalumaṇḍitapāṇiṃ paṇḍitapāmaravanditapādam ;
śaṅkaramāśritajanamandāraṃ kiṅkarabhāratītīrthasusevyam . 2