शारदाम्बा-गीतम् śāradāmbā-gītam
सारमतीरागः, खण्डछापुतालः
sāramatīrāgaḥ, khaṇḍachāputālaḥ
श्रीशारदाम्बां भजे श्रितकल्पवल्लीम् ।
कारुण्यवारान्निधिं कलिकल्मषघ्नीम् ॥
śrīśāradāmbāṃ bhaje śritakalpavallīm ;
kāruṇyavārānnidhiṃ kalikalmaṣaghnīm .
इन्द्रादिदेवार्च्यपादाम्बुजाताम् ईशित्वमुख्याष्टसिद्धिप्रदात्रीम् ।
ऊहापथातीतमाहात्म्ययुक्तां मोहान्धकारापहस्वाभिधानाम् ॥ १ ॥
indrādidevārcyapādāmbujātām īśitvamukhyāṣṭasiddhipradātrīm ;
ūhāpathātītamāhātmyayuktāṃ mohāndhakārāpahasvābhidhānām . 1 .
श्रीशङ्कराचार्यसंसेविताङ्घ्रिं श्रीशृङ्गगिर्याख्यपुर्यां वसन्तीम् ।
श्रीवाग्विभूत्यादिदानप्रवीणां श्रीभारतीतीर्थहृत्पद्मवासाम् ॥ २ ॥
śrīśaṅkarācāryasaṃsevitāṅghriṃ śrīśṛṅgagiryākhyapuryāṃ vasantīm ;
śrīvāgvibhūtyādidānapravīṇāṃ śrībhāratītīrthahṛtpadmavāsām . 2 .